Original

वैशंपायन उवाच ।एवमुक्तास्तु ते तेन पौरजानपदा जनाः ।वृद्धेन राज्ञा कौरव्य नष्टसंज्ञा इवाभवन् ॥ १ ॥

Segmented

वैशंपायन उवाच एवम् उक्ताः तु ते तेन पौर-जानपदाः जनाः वृद्धेन राज्ञा कौरव्य नष्ट-संज्ञाः इव अभवन्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्ताः वच् pos=va,g=m,c=1,n=p,f=part
तु तु pos=i
ते तद् pos=n,g=m,c=1,n=p
तेन तद् pos=n,g=m,c=3,n=s
पौर पौर pos=n,comp=y
जानपदाः जानपद pos=n,g=m,c=1,n=p
जनाः जन pos=n,g=m,c=1,n=p
वृद्धेन वृद्ध pos=a,g=m,c=3,n=s
राज्ञा राजन् pos=n,g=m,c=3,n=s
कौरव्य कौरव्य pos=n,g=m,c=8,n=s
नष्ट नश् pos=va,comp=y,f=part
संज्ञाः संज्ञा pos=n,g=m,c=1,n=p
इव इव pos=i
अभवन् भू pos=v,p=3,n=p,l=lan