Original

ततः संज्ञाप्य तुरगं विधिवद्याजकर्षभाः ।उपसंवेशयन्राजंस्ततस्तां द्रुपदात्मजाम् ।कलाभिस्तिसृभी राजन्यथाविधि मनस्विनीम् ॥ २ ॥

Segmented

ततः संज्ञाप्य तुरगम् विधिवद् याजक-ऋषभाः उपसंवेशयन् राजन् ततस् ताम् द्रुपद-आत्मजाम् कलाभिः तिसृभिः राजन् यथाविधि मनस्विनीम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
संज्ञाप्य संज्ञापय् pos=vi
तुरगम् तुरग pos=n,g=m,c=2,n=s
विधिवद् विधिवत् pos=i
याजक याजक pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p
उपसंवेशयन् उपसंवेशय् pos=v,p=3,n=p,l=lan
राजन् राजन् pos=n,g=m,c=8,n=s
ततस् ततस् pos=i
ताम् तद् pos=n,g=f,c=2,n=s
द्रुपद द्रुपद pos=n,comp=y
आत्मजाम् आत्मजा pos=n,g=f,c=2,n=s
कलाभिः कला pos=n,g=f,c=3,n=p
तिसृभिः त्रि pos=n,g=f,c=3,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
यथाविधि यथाविधि pos=i
मनस्विनीम् मनस्विन् pos=a,g=f,c=2,n=s