Original

वैशंपायन उवाच ।तस्मिन्यज्ञे प्रवृत्ते तु वाग्मिनो हेतुवादिनः ।हेतुवादान्बहून्प्राहुः परस्परजिगीषवः ॥ १ ॥

Segmented

वैशंपायन उवाच तस्मिन् यज्ञे प्रवृत्ते तु वाग्मिनो हेतुवादिनः हेतुवादान् बहून् प्राहुः परस्पर-जिगीषवः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तस्मिन् तद् pos=n,g=m,c=7,n=s
यज्ञे यज्ञ pos=n,g=m,c=7,n=s
प्रवृत्ते प्रवृत् pos=va,g=m,c=7,n=s,f=part
तु तु pos=i
वाग्मिनो वाग्मिन् pos=a,g=m,c=1,n=p
हेतुवादिनः हेतुवादिन् pos=n,g=m,c=1,n=p
हेतुवादान् हेतुवाद pos=n,g=m,c=2,n=p
बहून् बहु pos=a,g=m,c=2,n=p
प्राहुः प्राह् pos=v,p=3,n=p,l=lit
परस्पर परस्पर pos=n,comp=y
जिगीषवः जिगीषु pos=a,g=m,c=1,n=p