Original

इत्युक्त्वाथाब्रवीत्पुत्रं मणिपूरेश्वरं जयः ।चित्राङ्गदायाः शृण्वन्त्याः कौरव्यदुहितुस्तथा ॥ २३ ॥

Segmented

इति उक्त्वा अथ अब्रवीत् पुत्रम् मणिपूर-ईश्वरम् जयः चित्राङ्गदायाः शृण्वन्त्याः कौरव्य-दुहितुः तथा

Analysis

Word Lemma Parse
इति इति pos=i
उक्त्वा वच् pos=vi
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
मणिपूर मणिपूर pos=n,comp=y
ईश्वरम् ईश्वर pos=n,g=m,c=2,n=s
जयः जय pos=n,g=m,c=1,n=s
चित्राङ्गदायाः चित्राङ्गदा pos=n,g=f,c=6,n=s
शृण्वन्त्याः श्रु pos=va,g=f,c=6,n=s,f=part
कौरव्य कौरव्य pos=n,comp=y
दुहितुः दुहितृ pos=n,g=f,c=6,n=s
तथा तथा pos=i