Original

ततः स पुनरारुह्य वारणप्रवरं रणे ।अव्यग्रः प्रेषयामास जयार्थी विजयं प्रति ॥ १८ ॥

Segmented

ततः स पुनः आरुह्य वारण-प्रवरम् रणे अव्यग्रः प्रेषयामास जय-अर्थी विजयम् प्रति

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
आरुह्य आरुह् pos=vi
वारण वारण pos=n,comp=y
प्रवरम् प्रवर pos=a,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
अव्यग्रः अव्यग्र pos=a,g=m,c=1,n=s
प्रेषयामास प्रेषय् pos=v,p=3,n=s,l=lit
जय जय pos=n,comp=y
अर्थी अर्थिन् pos=a,g=m,c=1,n=s
विजयम् विजय pos=n,g=m,c=2,n=s
प्रति प्रति pos=i