Original

ब्राह्मणा ऊचुः ।क्रियतामुपहारोऽद्य त्र्यम्बकस्य महात्मनः ।कृत्वोपहारं नृपते ततः स्वार्थे यतामहे ॥ १ ॥

Segmented

ब्राह्मणा ऊचुः क्रियताम् उपहारो ऽद्य त्र्यम्बकस्य महात्मनः कृत्वा उपहारम् नृपते ततः स्व-अर्थे यतामहे

Analysis

Word Lemma Parse
ब्राह्मणा ब्राह्मण pos=n,g=m,c=1,n=p
ऊचुः वच् pos=v,p=3,n=p,l=lit
क्रियताम् कृ pos=v,p=3,n=s,l=lot
उपहारो उपहार pos=n,g=m,c=1,n=s
ऽद्य अद्य pos=i
त्र्यम्बकस्य त्र्यम्बक pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
कृत्वा कृ pos=vi
उपहारम् उपहार pos=n,g=m,c=2,n=s
नृपते नृपति pos=n,g=m,c=8,n=s
ततः ततस् pos=i
स्व स्व pos=a,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
यतामहे यत् pos=v,p=1,n=p,l=lat