Original

तस्मिन्देशे च राजेन्द्र यत्र तद्द्रव्यमुत्तमम् ।चक्रे निवेशनं राजा पाण्डवः सह सैनिकैः ।शिवे देशे समे चैव तदा भरतसत्तम ॥ ७ ॥

Segmented

तस्मिन् देशे च राज-इन्द्र यत्र तद् द्रव्यम् उत्तमम् चक्रे निवेशनम् राजा पाण्डवः सह सैनिकैः शिवे देशे समे च एव तदा भरत-सत्तम

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
देशे देश pos=n,g=m,c=7,n=s
pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
यत्र यत्र pos=i
तद् तद् pos=n,g=n,c=1,n=s
द्रव्यम् द्रव्य pos=n,g=n,c=1,n=s
उत्तमम् उत्तम pos=a,g=n,c=1,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
निवेशनम् निवेशन pos=n,g=n,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
सह सह pos=i
सैनिकैः सैनिक pos=n,g=m,c=3,n=p
शिवे शिव pos=a,g=m,c=7,n=s
देशे देश pos=n,g=m,c=7,n=s
समे सम pos=n,g=m,c=7,n=s
pos=i
एव एव pos=i
तदा तदा pos=i
भरत भरत pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s