Original

अवधीन्मद्रराजानं कुरुराजो युधिष्ठिरः ।तस्मिंस्तथार्धदिवसे कर्म कृत्वा सुदुष्करम् ॥ २४ ॥

Segmented

अवधीत् मद्र-राजानम् कुरुराजो युधिष्ठिरः तस्मिन् तथा अर्ध-दिवसे कर्म कृत्वा सु दुष्करम्

Analysis

Word Lemma Parse
अवधीत् वध् pos=v,p=3,n=s,l=lun
मद्र मद्र pos=n,comp=y
राजानम् राजन् pos=n,g=m,c=2,n=s
कुरुराजो कुरुराज pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
तथा तथा pos=i
अर्ध अर्ध pos=a,comp=y
दिवसे दिवस pos=n,g=m,c=7,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
सु सु pos=i
दुष्करम् दुष्कर pos=a,g=n,c=2,n=s