Original

दिनानि पञ्च तद्युद्धमभूत्परमदारुणम् ।ततो द्रोणः परिश्रान्तो धृष्टद्युम्नवशं गतः ॥ १८ ॥

Segmented

दिनानि पञ्च तद् युद्धम् अभूत् परम-दारुणम् ततो द्रोणः परिश्रान्तो धृष्टद्युम्न-वशम् गतः

Analysis

Word Lemma Parse
दिनानि दिन pos=n,g=n,c=2,n=p
पञ्च पञ्चन् pos=n,g=n,c=2,n=p
तद् तद् pos=n,g=n,c=1,n=s
युद्धम् युद्ध pos=n,g=n,c=1,n=s
अभूत् भू pos=v,p=3,n=s,l=lun
परम परम pos=a,comp=y
दारुणम् दारुण pos=a,g=n,c=1,n=s
ततो ततस् pos=i
द्रोणः द्रोण pos=n,g=m,c=1,n=s
परिश्रान्तो परिश्रम् pos=va,g=m,c=1,n=s,f=part
धृष्टद्युम्न धृष्टद्युम्न pos=n,comp=y
वशम् वश pos=n,g=m,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part