Original

तेऽत्यक्रामन्मतिं मह्यं भीष्मस्य विदुरस्य च ।ततो यमक्षयं जग्मुः समासाद्येतरेतरम् ॥ १७ ॥

Segmented

ते अत्यक्रामन् मतिम् मह्यम् भीष्मस्य विदुरस्य च ततो यम-क्षयम् जग्मुः समासाद्य इतरेतरम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
अत्यक्रामन् अतिक्रम् pos=v,p=3,n=p,l=lan
मतिम् मति pos=n,g=f,c=2,n=s
मह्यम् मद् pos=n,g=,c=4,n=s
भीष्मस्य भीष्म pos=n,g=m,c=6,n=s
विदुरस्य विदुर pos=n,g=m,c=6,n=s
pos=i
ततो ततस् pos=i
यम यम pos=n,comp=y
क्षयम् क्षय pos=n,g=m,c=2,n=s
जग्मुः गम् pos=v,p=3,n=p,l=lit
समासाद्य समासादय् pos=vi
इतरेतरम् इतरेतर pos=n,g=m,c=2,n=s