Original

चित्तं चित्तादुपागम्य मुनिरासीत संयतः ।यच्चित्तस्तन्मना भूत्वा गुह्यमेतत्सनातनम् ॥ २७ ॥

Segmented

चित्तम् चित्ताद् उपागम्य मुनिः आसीत संयतः यद्-चित्तः तद्-मनाः भूत्वा गुह्यम् एतत् सनातनम्

Analysis

Word Lemma Parse
चित्तम् चित्त pos=n,g=n,c=2,n=s
चित्ताद् चित्त pos=n,g=n,c=5,n=s
उपागम्य उपागम् pos=vi
मुनिः मुनि pos=n,g=m,c=1,n=s
आसीत आस् pos=v,p=3,n=s,l=vidhilin
संयतः संयम् pos=va,g=m,c=1,n=s,f=part
यद् यद् pos=n,comp=y
चित्तः चित्त pos=n,g=m,c=1,n=s
तद् तद् pos=n,comp=y
मनाः मनस् pos=n,g=m,c=1,n=s
भूत्वा भू pos=vi
गुह्यम् गुह्य pos=n,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
सनातनम् सनातन pos=a,g=n,c=1,n=s