Original

तपसा क्षेममध्वानं गच्छन्ति परमैषिणः ।संन्यासनिरता नित्यं ये ब्रह्मविदुषो जनाः ॥ ४ ॥

Segmented

तपसा क्षेमम् अध्वानम् गच्छन्ति परम-एषिणः संन्यास-निरताः नित्यम् ये ब्रह्म-विद्वांसः जनाः

Analysis

Word Lemma Parse
तपसा तपस् pos=n,g=n,c=3,n=s
क्षेमम् क्षेम pos=a,g=m,c=2,n=s
अध्वानम् अध्वन् pos=n,g=m,c=2,n=s
गच्छन्ति गम् pos=v,p=3,n=p,l=lat
परम परम pos=a,comp=y
एषिणः एषिन् pos=a,g=m,c=1,n=p
संन्यास संन्यास pos=n,comp=y
निरताः निरम् pos=va,g=m,c=1,n=p,f=part
नित्यम् नित्यम् pos=i
ये यद् pos=n,g=m,c=1,n=p
ब्रह्म ब्रह्मन् pos=n,comp=y
विद्वांसः विद्वस् pos=a,g=m,c=1,n=p
जनाः जन pos=n,g=m,c=1,n=p