Original

अर्थानिष्टान्कामयते स्वभावः सर्वान्द्वेष्यान्प्रद्विषते स्वभावः ।कामद्वेषावुद्भवतः स्वभावात्प्राणापानौ जन्तुदेहान्निवेश्य ॥ २ ॥

Segmented

अर्थान् इष्टान् कामयते स्वभावः सर्वान् द्वेष्यान् प्रद्विषते स्वभावः काम-द्वेषौ उद्भवतः स्वभावात् प्राण-अपानौ जन्तु-देहान् निवेश्य

Analysis

Word Lemma Parse
अर्थान् अर्थ pos=n,g=m,c=2,n=p
इष्टान् इष् pos=va,g=m,c=2,n=p,f=part
कामयते कामय् pos=v,p=3,n=s,l=lat
स्वभावः स्वभाव pos=n,g=m,c=1,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
द्वेष्यान् द्विष् pos=va,g=m,c=2,n=p,f=krtya
प्रद्विषते प्रद्विष् pos=v,p=3,n=s,l=lat
स्वभावः स्वभाव pos=n,g=m,c=1,n=s
काम काम pos=n,comp=y
द्वेषौ द्वेष pos=n,g=m,c=1,n=d
उद्भवतः उद्भू pos=v,p=3,n=d,l=lat
स्वभावात् स्वभाव pos=n,g=m,c=5,n=s
प्राण प्राण pos=n,comp=y
अपानौ अपान pos=n,g=m,c=1,n=d
जन्तु जन्तु pos=n,comp=y
देहान् देह pos=n,g=m,c=2,n=p
निवेश्य निवेशय् pos=vi