Original

य एवमनुमन्येरंस्तान्भवान्प्रष्टुमर्हति ।तेषामनुमतं श्रुत्वा शक्या कर्तुं विचारणा ॥ १३ ॥

Segmented

य एवम् अनुमन्येरन् तान् भवान् प्रष्टुम् अर्हति तेषाम् अनुमतम् श्रुत्वा शक्या कर्तुम् विचारणा

Analysis

Word Lemma Parse
यद् pos=n,g=m,c=1,n=p
एवम् एवम् pos=i
अनुमन्येरन् अनुमन् pos=v,p=3,n=p,l=vidhilin
तान् तद् pos=n,g=m,c=2,n=p
भवान् भवत् pos=a,g=m,c=1,n=s
प्रष्टुम् प्रच्छ् pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat
तेषाम् तद् pos=n,g=m,c=6,n=p
अनुमतम् अनुमत pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
शक्या शक्य pos=a,g=f,c=1,n=s
कर्तुम् कृ pos=vi
विचारणा विचारणा pos=n,g=f,c=1,n=s