Original

ब्राह्मण उवाच ।अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।चातुर्होत्रविधानस्य विधानमिह यादृशम् ॥ १ ॥

Segmented

ब्राह्मण उवाच अत्र अपि उदाहरन्ति इमम् इतिहासम् पुरातनम् चातुर्होत्र-विधानस्य विधानम् इह यादृशम्

Analysis

Word Lemma Parse
ब्राह्मण ब्राह्मण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अत्र अत्र pos=i
अपि अपि pos=i
उदाहरन्ति उदाहृ pos=v,p=3,n=p,l=lat
इमम् इदम् pos=n,g=m,c=2,n=s
इतिहासम् इतिहास pos=n,g=m,c=2,n=s
पुरातनम् पुरातन pos=a,g=m,c=2,n=s
चातुर्होत्र चातुर्होत्र pos=n,comp=y
विधानस्य विधान pos=n,g=n,c=6,n=s
विधानम् विधान pos=n,g=n,c=1,n=s
इह इह pos=i
यादृशम् यादृश pos=a,g=n,c=1,n=s