Original

ब्राह्मण उवाच ।एवं संचोदितः सिद्धः प्रश्नांस्तान्प्रत्यभाषत ।आनुपूर्व्येण वार्ष्णेय यथा तन्मे वचः शृणु ॥ ५ ॥

Segmented

ब्राह्मण उवाच एवम् संचोदितः सिद्धः प्रश्नान् तान् प्रत्यभाषत आनुपूर्व्येण वार्ष्णेय यथा तत् मे वचः शृणु

Analysis

Word Lemma Parse
ब्राह्मण ब्राह्मण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
संचोदितः संचोदय् pos=va,g=m,c=1,n=s,f=part
सिद्धः सिध् pos=va,g=m,c=1,n=s,f=part
प्रश्नान् प्रश्न pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
प्रत्यभाषत प्रतिभाष् pos=v,p=3,n=s,l=lan
आनुपूर्व्येण आनुपूर्व्य pos=n,g=n,c=3,n=s
वार्ष्णेय वार्ष्णेय pos=n,g=m,c=8,n=s
यथा यथा pos=i
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot