Original

उपलब्धा द्विजश्रेष्ठ तथेयं सिद्धिरुत्तमा ।इतः परं गमिष्यामि ततः परतरं पुनः ।ब्रह्मणः पदमव्यग्रं मा ते भूदत्र संशयः ॥ ३९ ॥

Segmented

उपलब्धा द्विजश्रेष्ठ तथा इयम् सिद्धिः उत्तमा इतः परम् गमिष्यामि ततः परतरम् पुनः ब्रह्मणः पदम् अव्यग्रम् मा ते भूद् अत्र संशयः

Analysis

Word Lemma Parse
उपलब्धा उपलभ् pos=va,g=f,c=1,n=s,f=part
द्विजश्रेष्ठ द्विजश्रेष्ठ pos=n,g=m,c=8,n=s
तथा तथा pos=i
इयम् इदम् pos=n,g=f,c=1,n=s
सिद्धिः सिद्धि pos=n,g=f,c=1,n=s
उत्तमा उत्तम pos=a,g=f,c=1,n=s
इतः इतस् pos=i
परम् परम् pos=i
गमिष्यामि गम् pos=v,p=1,n=s,l=lrt
ततः ततस् pos=i
परतरम् परतर pos=a,g=n,c=2,n=s
पुनः पुनर् pos=i
ब्रह्मणः ब्रह्मन् pos=n,g=n,c=6,n=s
पदम् पद pos=n,g=n,c=2,n=s
अव्यग्रम् अव्यग्र pos=a,g=n,c=2,n=s
मा मा pos=i
ते त्वद् pos=n,g=,c=6,n=s
भूद् भू pos=v,p=3,n=s,l=lun_unaug
अत्र अत्र pos=i
संशयः संशय pos=n,g=m,c=1,n=s