Original

ततः पीत्वा बलभित्सोममग्र्यं ये चाप्यन्ये सोमपा वै दिवौकसः ।सर्वेऽनुज्ञाताः प्रययुः पार्थिवेन यथाजोषं तर्पिताः प्रीतिमन्तः ॥ ३२ ॥

Segmented

ततः पीत्वा बलभित् सोमम् अग्र्यम् ये च अपि अन्ये सोमपा वै दिवौकसः सर्वे ऽनुज्ञाताः प्रययुः पार्थिवेन यथाजोषम् तर्पिताः प्रीतिमन्तः

Analysis

Word Lemma Parse
ततः ततस् pos=i
पीत्वा पा pos=vi
बलभित् बलभिद् pos=n,g=m,c=1,n=s
सोमम् सोम pos=n,g=m,c=2,n=s
अग्र्यम् अग्र्य pos=a,g=m,c=2,n=s
ये यद् pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
सोमपा सोमप pos=n,g=m,c=1,n=p
वै वै pos=i
दिवौकसः दिवौकस् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
ऽनुज्ञाताः अनुज्ञा pos=va,g=m,c=1,n=p,f=part
प्रययुः प्रया pos=v,p=3,n=p,l=lit
पार्थिवेन पार्थिव pos=n,g=m,c=3,n=s
यथाजोषम् यथाजोषम् pos=i
तर्पिताः तर्पय् pos=va,g=m,c=1,n=p,f=part
प्रीतिमन्तः प्रीतिमत् pos=a,g=m,c=1,n=p