Original

ततो यज्ञो ववृधे तस्य राज्ञो यत्र देवाः स्वयमन्नानि जह्रुः ।यस्मिञ्शक्रो ब्राह्मणैः पूज्यमानः सदस्योऽभूद्धरिमान्देवराजः ॥ ३० ॥

Segmented

ततो यज्ञो ववृधे तस्य राज्ञो यत्र देवाः स्वयम् अन्नानि जह्रुः यस्मिञ् शक्रो ब्राह्मणैः पूज्यमानः सदस्यो अभूत् हरिमन्त् देवराजः

Analysis

Word Lemma Parse
ततो ततस् pos=i
यज्ञो यज्ञ pos=n,g=m,c=1,n=s
ववृधे वृध् pos=v,p=3,n=s,l=lit
तस्य तद् pos=n,g=m,c=6,n=s
राज्ञो राजन् pos=n,g=m,c=6,n=s
यत्र यत्र pos=i
देवाः देव pos=n,g=m,c=1,n=p
स्वयम् स्वयम् pos=i
अन्नानि अन्न pos=n,g=n,c=2,n=p
जह्रुः हृ pos=v,p=3,n=p,l=lit
यस्मिञ् यद् pos=n,g=m,c=7,n=s
शक्रो शक्र pos=n,g=m,c=1,n=s
ब्राह्मणैः ब्राह्मण pos=n,g=m,c=3,n=p
पूज्यमानः पूजय् pos=va,g=m,c=1,n=s,f=part
सदस्यो सदस्य pos=n,g=m,c=1,n=s
अभूत् भू pos=v,p=3,n=s,l=lun
हरिमन्त् हरिमन्त् pos=n,g=m,c=1,n=s
देवराजः देवराज pos=n,g=m,c=1,n=s