Original

तमार्तं पतितं भूमौ निश्वसन्तं पुनः पुनः ।ददृशुः पाण्डवा राजन्धर्मात्मानं युधिष्ठिरम् ॥ ४ ॥

Segmented

तम् आर्तम् पतितम् भूमौ निश्वसन्तम् पुनः पुनः ददृशुः पाण्डवा राजन् धर्म-आत्मानम् युधिष्ठिरम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आर्तम् आर्त pos=a,g=m,c=2,n=s
पतितम् पत् pos=va,g=m,c=2,n=s,f=part
भूमौ भूमि pos=n,g=f,c=7,n=s
निश्वसन्तम् निश्वस् pos=va,g=m,c=2,n=s,f=part
पुनः पुनर् pos=i
पुनः पुनर् pos=i
ददृशुः दृश् pos=v,p=3,n=p,l=lit
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
धर्म धर्म pos=n,comp=y
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s