Original

सर्वदानैर्गुरुतरं सर्वदानैर्विशिष्यते ।पानीयं नरशार्दूल तस्माद्दातव्यमेव हि ॥ २१ ॥

Segmented

सर्व-दानैः गुरुतरम् सर्व-दानैः विशिष्यते पानीयम् नर-शार्दूल तस्माद् दातव्यम् एव हि

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
दानैः दान pos=n,g=n,c=3,n=p
गुरुतरम् गुरुतर pos=a,g=n,c=1,n=s
सर्व सर्व pos=n,comp=y
दानैः दान pos=n,g=n,c=3,n=p
विशिष्यते विशिष् pos=v,p=3,n=s,l=lat
पानीयम् पानीय pos=n,g=n,c=1,n=s
नर नर pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
तस्माद् तस्मात् pos=i
दातव्यम् दा pos=va,g=n,c=1,n=s,f=krtya
एव एव pos=i
हि हि pos=i