Original

ततस्ते यातुधानीं तां दृष्ट्वा विकृतदर्शनाम् ।स्थितां कमलिनीतीरे कृत्यामूचुर्महर्षयः ॥ १९ ॥

Segmented

ततस् ते यातुधानीम् ताम् दृष्ट्वा विकृत-दर्शनाम् स्थिताम् कमलिनी-तीरे कृत्याम् ऊचुः महा-ऋषयः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
यातुधानीम् यातुधानी pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
विकृत विकृ pos=va,comp=y,f=part
दर्शनाम् दर्शन pos=n,g=f,c=2,n=s
स्थिताम् स्था pos=va,g=f,c=2,n=s,f=part
कमलिनी कमलिनी pos=n,comp=y
तीरे तीर pos=n,g=n,c=7,n=s
कृत्याम् कृत्या pos=n,g=f,c=2,n=s
ऊचुः वच् pos=v,p=3,n=p,l=lit
महा महत् pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p