Original

युधिष्ठिर उवाच ।यदिदं तप इत्याहुरुपवासं पृथग्जनाः ।तपः स्यादेतदिह वै तपोऽन्यद्वापि किं भवेत् ॥ ३ ॥

Segmented

युधिष्ठिर उवाच यद् इदम् तप इति आहुः उपवासम् पृथग्जनाः तपः स्याद् एतद् इह वै तपो ऽन्यद् वा अपि किम् भवेत्

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यद् यद् pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
तप तपस् pos=n,g=n,c=2,n=s
इति इति pos=i
आहुः अह् pos=v,p=3,n=p,l=lit
उपवासम् उपवास pos=n,g=m,c=2,n=s
पृथग्जनाः पृथग्जन pos=n,g=m,c=1,n=p
तपः तपस् pos=n,g=n,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
एतद् एतद् pos=n,g=n,c=1,n=s
इह इह pos=i
वै वै pos=i
तपो तपस् pos=n,g=n,c=1,n=s
ऽन्यद् अन्य pos=n,g=n,c=1,n=s
वा वा pos=i
अपि अपि pos=i
किम् pos=n,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin