Original

तस्यासीत्प्रतिबुद्धस्य शोकेन पिहितात्मनः ।मनः संहृत्य विषये बुद्धिर्विस्तरगामिनी ॥ ९ ॥

Segmented

तस्य आसीत् प्रतिबुद्धस्य शोकेन पिहित-आत्मनः मनः संहृत्य विषये बुद्धिः विस्तर-गामिनी

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
प्रतिबुद्धस्य प्रतिबुध् pos=va,g=m,c=6,n=s,f=part
शोकेन शोक pos=n,g=m,c=3,n=s
पिहित पिधा pos=va,comp=y,f=part
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
मनः मनस् pos=n,g=n,c=2,n=s
संहृत्य संहृ pos=vi
विषये विषय pos=n,g=m,c=7,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
विस्तर विस्तर pos=n,comp=y
गामिनी गामिन् pos=a,g=f,c=1,n=s