Original

एतद्धि परमं तेजो ब्राह्मणस्येह दृश्यते ।सहस्रकिरणस्येव सवितुर्धरणीतले ॥ २० ॥

Segmented

एतत् हि परमम् तेजो ब्राह्मणस्य इह दृश्यते सहस्र-किरणस्य इव सवितुः धरणी-तले

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=1,n=s
हि हि pos=i
परमम् परम pos=a,g=n,c=1,n=s
तेजो तेजस् pos=n,g=n,c=1,n=s
ब्राह्मणस्य ब्राह्मण pos=n,g=m,c=6,n=s
इह इह pos=i
दृश्यते दृश् pos=v,p=3,n=s,l=lat
सहस्र सहस्र pos=n,comp=y
किरणस्य किरण pos=n,g=m,c=6,n=s
इव इव pos=i
सवितुः सवितृ pos=n,g=m,c=6,n=s
धरणी धरणी pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s