Original

कृष्णपक्षे दशम्यादौ वर्जयित्वा चतुर्दशीम् ।श्राद्धकर्मणि तिथ्यः स्युः प्रशस्ता न तथेतराः ॥ १८ ॥

Segmented

कृष्ण-पक्षे दशमी-आदौ वर्जयित्वा चतुर्दशीम् श्राद्ध-कर्मणि तिथ्यः स्युः प्रशस्ता न तथा इतराः

Analysis

Word Lemma Parse
कृष्ण कृष्ण pos=n,comp=y
पक्षे पक्ष pos=n,g=m,c=7,n=s
दशमी दशमी pos=n,comp=y
आदौ आदि pos=n,g=m,c=7,n=s
वर्जयित्वा वर्जय् pos=vi
चतुर्दशीम् चतुर्दशी pos=n,g=f,c=2,n=s
श्राद्ध श्राद्ध pos=n,comp=y
कर्मणि कर्मन् pos=n,g=n,c=7,n=s
तिथ्यः तिथि pos=n,g=f,c=1,n=p
स्युः अस् pos=v,p=3,n=p,l=vidhilin
प्रशस्ता प्रशंस् pos=va,g=f,c=1,n=p,f=part
pos=i
तथा तथा pos=i
इतराः इतर pos=n,g=f,c=1,n=p