Original

ब्राह्मणस्य कवेः पुत्रा वारुणास्तेऽप्युदाहृताः ।अष्टौ प्रसवजैर्युक्ता गुणैर्ब्रह्मविदः शुभाः ॥ ४० ॥

Segmented

ब्राह्मणस्य कवेः पुत्रा वारुणाः ते अपि उदाहृताः अष्टौ प्रसव-जैः युक्ता गुणैः ब्रह्म-विदः शुभाः

Analysis

Word Lemma Parse
ब्राह्मणस्य ब्राह्मण pos=n,g=m,c=6,n=s
कवेः कवि pos=n,g=m,c=6,n=s
पुत्रा पुत्र pos=n,g=m,c=1,n=p
वारुणाः वारुण pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
अपि अपि pos=i
उदाहृताः उदाहृ pos=va,g=m,c=1,n=p,f=part
अष्टौ अष्टन् pos=n,g=m,c=1,n=p
प्रसव प्रसव pos=n,comp=y
जैः pos=a,g=m,c=3,n=p
युक्ता युज् pos=va,g=m,c=1,n=p,f=part
गुणैः गुण pos=n,g=m,c=3,n=p
ब्रह्म ब्रह्मन् pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
शुभाः शुभ pos=a,g=m,c=1,n=p