Original

तथा भस्मव्यपोहेभ्यो ब्रह्मर्षिगणसंमिताः ।वैखानसाः समुत्पन्नास्तपःश्रुतगुणेप्सवः ।अश्रुतोऽस्य समुत्पन्नावश्विनौ रूपसंमतौ ॥ १८ ॥

Segmented

तथा भस्म-व्यपोहेभ्यः ब्रह्म-ऋषि-गण-संमिताः वैखानसाः समुत्पन्नाः तपः-श्रुत-गुण-ईप्सवः अश्रुतो ऽस्य समुत्पन्नौ अश्विनौ रूप-संमतौ

Analysis

Word Lemma Parse
तथा तथा pos=i
भस्म भस्मन् pos=n,comp=y
व्यपोहेभ्यः व्यपोह pos=n,g=m,c=5,n=p
ब्रह्म ब्रह्मन् pos=n,comp=y
ऋषि ऋषि pos=n,comp=y
गण गण pos=n,comp=y
संमिताः संमा pos=va,g=m,c=1,n=p,f=part
वैखानसाः वैखानस pos=n,g=m,c=1,n=p
समुत्पन्नाः समुत्पद् pos=va,g=m,c=1,n=p,f=part
तपः तपस् pos=n,comp=y
श्रुत श्रुत pos=n,comp=y
गुण गुण pos=n,comp=y
ईप्सवः ईप्सु pos=a,g=m,c=1,n=p
अश्रुतो अश्रु pos=n,g=m,c=5,n=s
ऽस्य इदम् pos=n,g=m,c=6,n=s
समुत्पन्नौ समुत्पद् pos=va,g=m,c=1,n=d,f=part
अश्विनौ अश्विन् pos=n,g=m,c=1,n=d
रूप रूप pos=n,comp=y
संमतौ सम्मन् pos=va,g=m,c=1,n=d,f=part