Original

पावनं यत्परं नॄणामुग्रे कर्मणि वर्तताम् ।तदुच्यतां महाभागा इति जातघृणोऽब्रवीत् ॥ ३५ ॥

Segmented

पावनम् यत् परम् नॄणाम् उग्रे कर्मणि वर्तताम् तद् उच्यताम् महाभागा इति जात-घृणः ऽब्रवीत्

Analysis

Word Lemma Parse
पावनम् पावन pos=n,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
परम् पर pos=n,g=n,c=1,n=s
नॄणाम् नृ pos=n,g=,c=6,n=p
उग्रे उग्र pos=a,g=n,c=7,n=s
कर्मणि कर्मन् pos=n,g=n,c=7,n=s
वर्तताम् वृत् pos=va,g=m,c=6,n=p,f=part
तद् तद् pos=n,g=n,c=1,n=s
उच्यताम् वच् pos=v,p=3,n=s,l=lot
महाभागा महाभाग pos=a,g=m,c=8,n=p
इति इति pos=i
जात जन् pos=va,comp=y,f=part
घृणः घृणा pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan