Original

ततो देवैर्महादेवस्तदा पशुपतिः कृतः ।ईश्वरः स गवां मध्ये वृषाङ्क इति चोच्यते ॥ २९ ॥

Segmented

ततो देवैः महादेवः तदा पशुपतिः कृतः ईश्वरः स गवाम् मध्ये वृषाङ्क इति च उच्यते

Analysis

Word Lemma Parse
ततो ततस् pos=i
देवैः देव pos=n,g=m,c=3,n=p
महादेवः महादेव pos=n,g=m,c=1,n=s
तदा तदा pos=i
पशुपतिः पशुपति pos=n,g=m,c=1,n=s
कृतः कृ pos=va,g=m,c=1,n=s,f=part
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
गवाम् गो pos=n,g=,c=6,n=p
मध्ये मध्य pos=n,g=n,c=7,n=s
वृषाङ्क वृषाङ्क pos=n,g=m,c=1,n=s
इति इति pos=i
pos=i
उच्यते वच् pos=v,p=3,n=s,l=lat