Original

तासाममृतवर्णानां क्षरन्तीनां समन्ततः ।बभूवामृतजः फेनः स्रवन्तीनामिवोर्मिजः ॥ १९ ॥

Segmented

तासाम् अमृत-वर्णानाम् क्षरन्तीनाम् समन्ततः बभूव अमृत-जः फेनः स्रवन्तीनाम् इव ऊर्मि-जः

Analysis

Word Lemma Parse
तासाम् तद् pos=n,g=f,c=6,n=p
अमृत अमृत pos=n,comp=y
वर्णानाम् वर्ण pos=n,g=f,c=6,n=p
क्षरन्तीनाम् क्षर् pos=va,g=f,c=6,n=p,f=part
समन्ततः समन्ततः pos=i
बभूव भू pos=v,p=3,n=s,l=lit
अमृत अमृत pos=n,comp=y
जः pos=a,g=m,c=1,n=s
फेनः फेन pos=n,g=m,c=1,n=s
स्रवन्तीनाम् स्रवन्ती pos=n,g=f,c=6,n=p
इव इव pos=i
ऊर्मि ऊर्मि pos=n,comp=y
जः pos=a,g=m,c=1,n=s