Original

इतीदं मनसा गत्वा प्रजासर्गार्थमात्मनः ।प्रजापतिर्बलाधानममृतं प्रापिबत्तदा ॥ १६ ॥

Segmented

इति इदम् मनसा गत्वा प्रजा-सर्ग-अर्थम् आत्मनः प्रजापतिः बल-आधानम् अमृतम् प्रापिबत् तदा

Analysis

Word Lemma Parse
इति इति pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
गत्वा गम् pos=vi
प्रजा प्रजा pos=n,comp=y
सर्ग सर्ग pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
प्रजापतिः प्रजापति pos=n,g=m,c=1,n=s
बल बल pos=n,comp=y
आधानम् आधान pos=n,g=n,c=2,n=s
अमृतम् अमृत pos=n,g=n,c=2,n=s
प्रापिबत् प्रपा pos=v,p=3,n=s,l=lan
तदा तदा pos=i