Original

मृत्युकाले सहस्राक्ष यां वृत्तिमनुकाङ्क्षते ।लोकान्बहुविधान्दिव्यान्यद्वास्य हृदि वर्तते ॥ ४५ ॥

Segmented

मृत्यु-काले सहस्राक्ष याम् वृत्तिम् अनुकाङ्क्षते लोकान् बहुविधान् दिव्यान् यद् वा अस्य हृदि वर्तते

Analysis

Word Lemma Parse
मृत्यु मृत्यु pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
सहस्राक्ष सहस्राक्ष pos=n,g=m,c=8,n=s
याम् यद् pos=n,g=f,c=2,n=s
वृत्तिम् वृत्ति pos=n,g=f,c=2,n=s
अनुकाङ्क्षते अनुकाङ्क्ष् pos=v,p=3,n=s,l=lat
लोकान् लोक pos=n,g=m,c=2,n=p
बहुविधान् बहुविध pos=a,g=m,c=2,n=p
दिव्यान् दिव्य pos=a,g=m,c=2,n=p
यद् यद् pos=n,g=n,c=1,n=s
वा वा pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
हृदि हृद् pos=n,g=n,c=7,n=s
वर्तते वृत् pos=v,p=3,n=s,l=lat