Original

दत्त्वा धेनुं सुव्रतां साधुवत्सां कल्याणवृत्तामपलायिनीं च ।यावन्ति लोमानि भवन्ति तस्यास्तावन्ति वर्षाणि वसत्यमुत्र ॥ ४२ ॥

Segmented

दत्त्वा धेनुम् सुव्रताम् साधु-वत्साम् कल्याण-वृत्ताम् अपलायिनीम् च यावन्ति लोमानि भवन्ति तस्यास् तावन्ति वर्षाणि वसति अमुत्र

Analysis

Word Lemma Parse
दत्त्वा दा pos=vi
धेनुम् धेनु pos=n,g=f,c=2,n=s
सुव्रताम् सुव्रत pos=a,g=f,c=2,n=s
साधु साधु pos=a,comp=y
वत्साम् वत्स pos=n,g=f,c=2,n=s
कल्याण कल्याण pos=a,comp=y
वृत्ताम् वृत्त pos=n,g=f,c=2,n=s
अपलायिनीम् अपलायिन् pos=a,g=f,c=2,n=s
pos=i
यावन्ति यावत् pos=a,g=n,c=1,n=p
लोमानि लोमन् pos=n,g=n,c=1,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat
तस्यास् तद् pos=n,g=f,c=6,n=s
तावन्ति तावत् pos=a,g=n,c=2,n=p
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
वसति वस् pos=v,p=3,n=s,l=lat
अमुत्र अमुत्र pos=i