Original

यमस्तु पूजयित्वा मां ततो वचनमब्रवीत् ।नान्तः संख्यायते राजंस्तव पुण्यस्य कर्मणः ॥ २१ ॥

Segmented

यमः तु पूजयित्वा माम् ततो वचनम् अब्रवीत् न अन्तः संख्यायते राजन् ते पुण्यस्य कर्मणः

Analysis

Word Lemma Parse
यमः यम pos=n,g=m,c=1,n=s
तु तु pos=i
पूजयित्वा पूजय् pos=vi
माम् मद् pos=n,g=,c=2,n=s
ततो ततस् pos=i
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
pos=i
अन्तः अन्त pos=n,g=m,c=1,n=s
संख्यायते संख्या pos=v,p=3,n=s,l=lat
राजन् राजन् pos=n,g=m,c=8,n=s
ते त्वद् pos=n,g=,c=6,n=s
पुण्यस्य पुण्य pos=a,g=n,c=6,n=s
कर्मणः कर्मन् pos=n,g=n,c=6,n=s