Original

यः साधोर्भूमिमादत्ते न भूमिं विन्दते तु सः ।भूमिं तु दत्त्वा साधुभ्यो विन्दते भूमिमेव हि ।प्रेत्येह च स धर्मात्मा संप्राप्नोति महद्यशः ॥ १४ ॥

Segmented

यः साधोः भूमिम् आदत्ते न भूमिम् विन्दते तु सः भूमिम् तु दत्त्वा साधुभ्यो विन्दते भूमिम् एव हि प्रेत्य इह च स धर्म-आत्मा सम्प्राप्नोति महद् यशः

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
साधोः साधु pos=a,g=m,c=6,n=s
भूमिम् भूमि pos=n,g=f,c=2,n=s
आदत्ते आदा pos=v,p=3,n=s,l=lat
pos=i
भूमिम् भूमि pos=n,g=f,c=2,n=s
विन्दते विद् pos=v,p=3,n=s,l=lat
तु तु pos=i
सः तद् pos=n,g=m,c=1,n=s
भूमिम् भूमि pos=n,g=f,c=2,n=s
तु तु pos=i
दत्त्वा दा pos=vi
साधुभ्यो साधु pos=a,g=m,c=4,n=p
विन्दते विद् pos=v,p=3,n=s,l=lat
भूमिम् भूमि pos=n,g=f,c=2,n=s
एव एव pos=i
हि हि pos=i
प्रेत्य प्रे pos=vi
इह इह pos=i
pos=i
तद् pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
सम्प्राप्नोति सम्प्राप् pos=v,p=3,n=s,l=lat
महद् महत् pos=a,g=n,c=2,n=s
यशः यशस् pos=n,g=n,c=2,n=s