Original

नामास्याः प्रियदत्तेति गुह्यं देव्याः सनातनम् ।दानं वाप्यथ वा ज्ञानं नाम्नोऽस्याः परमं प्रियम् ।तस्मात्प्राप्यैव पृथिवीं दद्याद्विप्राय पार्थिवः ॥ १२ ॥

Segmented

नाम अस्याः प्रिय-दत्ता इति गुह्यम् देव्याः सनातनम् दानम् वा अपि अथ वा ज्ञानम् नाम्नो ऽस्याः परमम् प्रियम् तस्मात् प्राप्य एव पृथिवीम् दद्याद् विप्राय पार्थिवः

Analysis

Word Lemma Parse
नाम नामन् pos=n,g=n,c=1,n=s
अस्याः इदम् pos=n,g=f,c=6,n=s
प्रिय प्रिय pos=a,comp=y
दत्ता दा pos=va,g=f,c=1,n=s,f=part
इति इति pos=i
गुह्यम् गुह्य pos=n,g=n,c=1,n=s
देव्याः देवी pos=n,g=f,c=6,n=s
सनातनम् सनातन pos=a,g=n,c=1,n=s
दानम् दान pos=n,g=n,c=1,n=s
वा वा pos=i
अपि अपि pos=i
अथ अथ pos=i
वा वा pos=i
ज्ञानम् ज्ञान pos=n,g=n,c=1,n=s
नाम्नो नामन् pos=n,g=n,c=6,n=s
ऽस्याः इदम् pos=n,g=f,c=6,n=s
परमम् परम pos=a,g=n,c=1,n=s
प्रियम् प्रिय pos=a,g=n,c=1,n=s
तस्मात् तस्मात् pos=i
प्राप्य प्राप् pos=vi
एव एव pos=i
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
दद्याद् दा pos=v,p=3,n=s,l=vidhilin
विप्राय विप्र pos=n,g=m,c=4,n=s
पार्थिवः पार्थिव pos=n,g=m,c=1,n=s