Original

मृदुभावान्सत्यशीलान्सत्यधर्मानुपालकान् ।आशीविषानिव क्रुद्धांस्तानुपाचरत द्विजान् ॥ ३४ ॥

Segmented

मृदु-भावान् सत्य-शीलान् सत्य-धर्म-अनुपालकान् आशीविषान् इव क्रुद्धान् तान् उपाचरत द्विजान्

Analysis

Word Lemma Parse
मृदु मृदु pos=a,comp=y
भावान् भाव pos=n,g=m,c=2,n=p
सत्य सत्य pos=n,comp=y
शीलान् शील pos=n,g=m,c=2,n=p
सत्य सत्य pos=n,comp=y
धर्म धर्म pos=n,comp=y
अनुपालकान् अनुपालक pos=a,g=m,c=2,n=p
आशीविषान् आशीविष pos=n,g=m,c=2,n=p
इव इव pos=i
क्रुद्धान् क्रुध् pos=va,g=m,c=2,n=p,f=part
तान् तद् pos=n,g=m,c=2,n=p
उपाचरत उपाचर् pos=v,p=2,n=p,l=lot
द्विजान् द्विज pos=n,g=m,c=2,n=p