Original

इत्येवं चिन्तयानः स विदितश्च्यवनस्य वै ।संप्रेक्ष्योवाच स नृपं क्षिप्रमागम्यतामिति ॥ ३० ॥

Segmented

इति एवम् चिन्तयानः स विदितः च्यवनस्य वै सम्प्रेक्ष्य उवाच स नृपम् क्षिप्रम् आगम्यताम् इति

Analysis

Word Lemma Parse
इति इति pos=i
एवम् एवम् pos=i
चिन्तयानः चिन्तय् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
विदितः विद् pos=va,g=m,c=1,n=s,f=part
च्यवनस्य च्यवन pos=n,g=m,c=6,n=s
वै वै pos=i
सम्प्रेक्ष्य सम्प्रेक्ष् pos=vi
उवाच वच् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
नृपम् नृप pos=n,g=m,c=2,n=s
क्षिप्रम् क्षिप्रम् pos=i
आगम्यताम् आगम् pos=v,p=3,n=s,l=lot
इति इति pos=i