Original

वेपमानौ विराहारौ पञ्चाशद्रात्रकर्शितौ ।कथंचिदूहतुर्वीरौ दंपती तं रथोत्तमम् ॥ ४२ ॥

Segmented

वेपमानौ पञ्चाशत्-रात्र-कर्शितौ कथंचिद् ऊहतुः वीरौ दंपती तम् रथ-उत्तमम्

Analysis

Word Lemma Parse
वेपमानौ विप् pos=va,g=m,c=1,n=d,f=part
पञ्चाशत् पञ्चाशत् pos=n,comp=y
रात्र रात्र pos=n,comp=y
कर्शितौ कर्शय् pos=va,g=m,c=1,n=d,f=part
कथंचिद् कथंचिद् pos=i
ऊहतुः वह् pos=v,p=3,n=d,l=lit
वीरौ वीर pos=n,g=m,c=1,n=d
दंपती दम्पति pos=n,g=m,c=1,n=d
तम् तद् pos=n,g=m,c=2,n=s
रथ रथ pos=n,comp=y
उत्तमम् उत्तम pos=a,g=m,c=2,n=s