Original

भीष्म उवाच ।ततस्तस्य प्रसादात्ते महर्षेर्भावितात्मनः ।निषादास्तेन वाक्येन सह मत्स्यैर्दिवं ययुः ॥ ४० ॥

Segmented

भीष्म उवाच ततस् तस्य प्रसादात् ते महा-ऋषेः भावितात्मनः निषादाः तेन वाक्येन सह मत्स्यैः दिवम् ययुः

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततस् ततस् pos=i
तस्य तद् pos=n,g=m,c=6,n=s
प्रसादात् प्रसाद pos=n,g=m,c=5,n=s
ते तद् pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
ऋषेः ऋषि pos=n,g=m,c=6,n=s
भावितात्मनः भावितात्मन् pos=a,g=m,c=6,n=s
निषादाः निषाद pos=n,g=m,c=1,n=p
तेन तद् pos=n,g=n,c=3,n=s
वाक्येन वाक्य pos=n,g=n,c=3,n=s
सह सह pos=i
मत्स्यैः मत्स्य pos=n,g=m,c=3,n=p
दिवम् दिव् pos=n,g=,c=2,n=s
ययुः या pos=v,p=3,n=p,l=lit