Original

भीष्म उवाच ।महर्षेर्वचनं श्रुत्वा नहुषो दुःखकर्शितः ।स चिन्तयामास तदा सहामात्यपुरोहितः ॥ १४ ॥

Segmented

भीष्म उवाच महा-ऋषेः वचनम् श्रुत्वा नहुषो दुःख-कर्शितः स चिन्तयामास तदा सह अमात्य-पुरोहितः

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
ऋषेः ऋषि pos=n,g=m,c=6,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
नहुषो नहुष pos=n,g=m,c=1,n=s
दुःख दुःख pos=n,comp=y
कर्शितः कर्शय् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
चिन्तयामास चिन्तय् pos=v,p=3,n=s,l=lit
तदा तदा pos=i
सह सह pos=i
अमात्य अमात्य pos=n,comp=y
पुरोहितः पुरोहित pos=n,g=m,c=1,n=s