Original

निषादा बहवस्तत्र मत्स्योद्धरणनिश्चिताः ।व्यायता बलिनः शूराः सलिलेष्वनिवर्तिनः ।अभ्याययुश्च तं देशं निश्चिता जालकर्मणि ॥ १२ ॥

Segmented

निषादा बहवः तत्र मत्स्य-उद्धरण-निश्चिताः व्यायता बलिनः शूराः सलिलेषु अनिवर्तिन् अभ्याययुः च तम् देशम् निश्चिता जाल-कर्मणि

Analysis

Word Lemma Parse
निषादा निषाद pos=n,g=m,c=1,n=p
बहवः बहु pos=a,g=m,c=1,n=p
तत्र तत्र pos=i
मत्स्य मत्स्य pos=n,comp=y
उद्धरण उद्धरण pos=n,comp=y
निश्चिताः निश्चि pos=va,g=m,c=1,n=p,f=part
व्यायता व्यायम् pos=va,g=m,c=1,n=p,f=part
बलिनः बलिन् pos=a,g=m,c=1,n=p
शूराः शूर pos=n,g=m,c=1,n=p
सलिलेषु सलिल pos=n,g=n,c=7,n=p
अनिवर्तिन् अनिवर्तिन् pos=a,g=m,c=1,n=p
अभ्याययुः अभ्याया pos=v,p=3,n=p,l=lit
pos=i
तम् तद् pos=n,g=m,c=2,n=s
देशम् देश pos=n,g=m,c=2,n=s
निश्चिता निश्चि pos=va,g=m,c=1,n=p,f=part
जाल जाल pos=n,comp=y
कर्मणि कर्मन् pos=n,g=n,c=7,n=s