Original

भूयान्स्यात्क्षत्रियापुत्रो वैश्यापुत्रान्न संशयः ।भूयस्तेनापि हर्तव्यं पितृवित्ताद्युधिष्ठिर ॥ ४५ ॥

Segmented

भूयान् स्यात् क्षत्रिया-पुत्रः वैश्या-पुत्रात् न संशयः भूयः तेन अपि हर्तव्यम् पितृ-वित्तात् युधिष्ठिर

Analysis

Word Lemma Parse
भूयान् भूयस् pos=a,g=m,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
क्षत्रिया क्षत्रिया pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
वैश्या वैश्या pos=n,comp=y
पुत्रात् पुत्र pos=n,g=m,c=5,n=s
pos=i
संशयः संशय pos=n,g=m,c=1,n=s
भूयः भूयस् pos=a,g=n,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
अपि अपि pos=i
हर्तव्यम् हृ pos=va,g=n,c=1,n=s,f=krtya
पितृ पितृ pos=n,comp=y
वित्तात् वित्त pos=n,g=n,c=5,n=s
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s