Original

स्त्रियास्तु यद्भवेद्वित्तं पित्रा दत्तं युधिष्ठिर ।ब्राह्मण्यास्तद्धरेत्कन्या यथा पुत्रस्तथा हि सा ।सा हि पुत्रसमा राजन्विहिता कुरुनन्दन ॥ २५ ॥

Segmented

स्त्रियाः तु यद् भवेद् वित्तम् पित्रा दत्तम् युधिष्ठिर ब्राह्मण्याः तत् हरेत् कन्या यथा पुत्रः तथा हि सा सा हि पुत्र-समा राजन् विहिता कुरु-नन्दन

Analysis

Word Lemma Parse
स्त्रियाः स्त्री pos=n,g=f,c=6,n=s
तु तु pos=i
यद् यद् pos=n,g=n,c=1,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
वित्तम् वित्त pos=n,g=n,c=1,n=s
पित्रा पितृ pos=n,g=m,c=3,n=s
दत्तम् दा pos=va,g=n,c=1,n=s,f=part
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
ब्राह्मण्याः ब्राह्मणी pos=n,g=f,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
हरेत् हृ pos=v,p=3,n=s,l=vidhilin
कन्या कन्या pos=n,g=f,c=1,n=s
यथा यथा pos=i
पुत्रः पुत्र pos=n,g=m,c=1,n=s
तथा तथा pos=i
हि हि pos=i
सा तद् pos=n,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
हि हि pos=i
पुत्र पुत्र pos=n,comp=y
समा सम pos=n,g=f,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
विहिता विधा pos=va,g=f,c=1,n=s,f=part
कुरु कुरु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s