Original

ततः षडन्यान्पुरुषानक्षैः काञ्चनराजतैः ।अपश्यद्दीव्यमानान्वै लोभहर्षान्वितांस्तथा ॥ २५ ॥

Segmented

ततः षड् अन्यान् पुरुषान् अक्षैः काञ्चन-राजतैः अपश्यद् दीव्यमानान् वै लोभ-हर्ष-अन्वितान् तथा

Analysis

Word Lemma Parse
ततः ततस् pos=i
षड् षष् pos=n,g=m,c=2,n=p
अन्यान् अन्य pos=n,g=m,c=2,n=p
पुरुषान् पुरुष pos=n,g=m,c=2,n=p
अक्षैः अक्ष pos=n,g=n,c=3,n=p
काञ्चन काञ्चन pos=a,comp=y
राजतैः राजत pos=a,g=n,c=3,n=p
अपश्यद् पश् pos=v,p=3,n=s,l=lan
दीव्यमानान् दीव् pos=va,g=m,c=2,n=p,f=part
वै वै pos=i
लोभ लोभ pos=n,comp=y
हर्ष हर्ष pos=n,comp=y
अन्वितान् अन्वित pos=a,g=m,c=2,n=p
तथा तथा pos=i