Original

स कदाचिदृषिस्तात यज्ञं कर्तुमनास्तदा ।भार्यासंरक्षणं कार्यं कथं स्यादित्यचिन्तयत् ॥ २० ॥

Segmented

स कदाचिद् ऋषिः तात यज्ञम् कर्तु-मनाः तदा भार्या-संरक्षणम् कार्यम् कथम् स्याद् इति अचिन्तयत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
कदाचिद् कदाचिद् pos=i
ऋषिः ऋषि pos=n,g=m,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
यज्ञम् यज्ञ pos=n,g=m,c=2,n=s
कर्तु कर्तु pos=n,comp=y
मनाः मनस् pos=n,g=m,c=1,n=s
तदा तदा pos=i
भार्या भार्या pos=n,comp=y
संरक्षणम् संरक्षण pos=n,g=n,c=1,n=s
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
कथम् कथम् pos=i
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
इति इति pos=i
अचिन्तयत् चिन्तय् pos=v,p=3,n=s,l=lan