Original

त्रिलोकविख्यातगुणं त्वं विप्रं जनयिष्यसि ।सा च क्षत्रं विशिष्टं वै तत एतत्कृतं मया ॥ ३८ ॥

Segmented

त्रिलोक-विख्यात-गुणम् त्वम् विप्रम् जनयिष्यसि सा च क्षत्रम् विशिष्टम् वै तत एतत् कृतम् मया

Analysis

Word Lemma Parse
त्रिलोक त्रिलोक pos=n,comp=y
विख्यात विख्या pos=va,comp=y,f=part
गुणम् गुण pos=n,g=m,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
विप्रम् विप्र pos=n,g=m,c=2,n=s
जनयिष्यसि जनय् pos=v,p=2,n=s,l=lrt
सा तद् pos=n,g=f,c=1,n=s
pos=i
क्षत्रम् क्षत्र pos=n,g=n,c=2,n=s
विशिष्टम् विशिष् pos=va,g=n,c=2,n=s,f=part
वै वै pos=i
तत ततस् pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s