Original

ये चाप्येषां पूज्यतमास्तान्दृढं प्रतिपूजयेत् ।तेषु शान्तेषु तद्राष्ट्रं सर्वमेव विराजते ॥ ५ ॥

Segmented

ये च अपि एषाम् पूज्यतमाः तान् दृढम् प्रतिपूजयेत् तेषु शान्तेषु तद् राष्ट्रम् सर्वम् एव विराजते

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
पूज्यतमाः पूज्यतम pos=a,g=m,c=1,n=p
तान् तद् pos=n,g=m,c=2,n=p
दृढम् दृढम् pos=i
प्रतिपूजयेत् प्रतिपूजय् pos=v,p=3,n=s,l=vidhilin
तेषु तद् pos=n,g=m,c=7,n=p
शान्तेषु शम् pos=va,g=m,c=7,n=p,f=part
तद् तद् pos=n,g=n,c=1,n=s
राष्ट्रम् राष्ट्र pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
एव एव pos=i
विराजते विराज् pos=v,p=3,n=s,l=lat