Original

कृत्तोत्तमाङ्गास्ते राजन्भल्लैः शतसहस्रशः ।अपतन्रुधिरार्द्राङ्गा निकृत्ता इव किंशुकाः ॥ ४० ॥

Segmented

कृत्त-उत्तमाङ्गाः ते राजन् भल्लैः शत-सहस्रशस् अपतन् रुधिर-आर्द्र-अङ्गाः निकृत्ता इव किंशुकाः

Analysis

Word Lemma Parse
कृत्त कृत् pos=va,comp=y,f=part
उत्तमाङ्गाः उत्तमाङ्ग pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
भल्लैः भल्ल pos=n,g=m,c=3,n=p
शत शत pos=n,comp=y
सहस्रशस् सहस्रशस् pos=i
अपतन् पत् pos=v,p=3,n=p,l=lan
रुधिर रुधिर pos=n,comp=y
आर्द्र आर्द्र pos=a,comp=y
अङ्गाः अङ्ग pos=n,g=m,c=1,n=p
निकृत्ता निकृत् pos=va,g=m,c=1,n=p,f=part
इव इव pos=i
किंशुकाः किंशुक pos=n,g=m,c=1,n=p